|
|
 |
 |
|
|
१० सौप्तिकपर्व.jpg)
॥ श्रीः ॥
10.15. अध्यायः 015
Mahabharata - Sauptika Parva - Chapter Topics
अर्जुनेन व्यासनारदभावानुरोधेन स्वप्रयुक्तब्रह्मशिरोस्त्रप्रतिसंहारः॥ 1 ॥ कृष्णेनाश्वत्थामानं प्रति उत्तरागर्भे ऐषीकास्त्रपातेऽपि मृतशिशोः स्वेन समुज्जीवनप्रतिज्ञा॥ 2 ॥ ब्रह्मचर्याभावादस्रप्रतिसंहारासमर्थेन द्रौणिना व्यासकृष्णावनादृस्य पाण्वगर्भेष्वैषीकास्त्रोत्सर्जनम्॥ 3 ॥

Mahabharata - Sauptika Parva - Chapter Text
वैशम्पायन उवाच। 10-15-0x(5293)(64646)
दृष्टैव मुनिशार्दूलौ तावग्निसमतेजसौ।
`गाण्डीवधन्वा सञ्चिन्त्य प्राप्तकालं महारथः।'
सञ्जहार शरं दिव्यं त्वरमाणो धनञ्जयः॥ 10-15-1(64647)
उवाच वचनं श्रेष्ठस्तावृषी प्राञ्जलिस्तदा।
प्रमुक्तमस्त्रमस्त्रेण शाम्यतामिति वै मया॥ 10-15-2(64648)
संहृते परमास्त्रेऽस्मिन्सर्वानस्मानशेषतः।
पापकर्मा ध्रुवं द्रौणिः प्रधक्ष्यत्यस्त्रतेजसा॥ 10-15-3(64649)
यदत्र हितमस्माकं लोकानां चैव सर्वथा।
भवन्तौ देवसङ्काशौ तथा सम्मन्तुमर्हतः॥ 10-15-4(64650)
इत्युक्त्वा सञ्जहारास्त्रं पुनरेव धनञ्जयः।
संहारो दुष्करस्स्य देवैरपि हि संयुगे॥ 10-15-5(64651)
विसृष्टस्य रणे तस्य परमास्त्रस्य सङ्ग्रहे।
अशक्तः पाण्डवादन्यः साक्षादपि शतक्रतुः॥ 10-15-6(64652)
ब्रह्मतेजोद्भवं तद्धि विसृष्टमकृतात्मना।
न शक्यमावर्तयितुं ब्रह्मचर्यव्रतादृते॥ 10-15-7(64653)
अचीर्णब्रह्मचर्यो यः सृष्ट्वाऽऽवर्यते पुनः।
तदस्त्रं सानुबन्धस्य मूर्धानं तस्य कृन्तति॥ 10-15-8(64654)
ब्रह्मचारी व्रती चापि दुरवापमवाप्य तत्।
परमव्यसनार्तोऽपि नार्जुनोऽस्त्रं व्यमुञ्चत॥ 10-15-9(64655)
सत्यव्रतधरः शूरो ब्रह्मचारी च पाण़्डवः।
गुरुवर्ती च तेनास्त्रं सञ्जहारार्जुनः पुनः॥ 10-15-10(64656)
द्रौणिरप्यथ सम्प्रेभ्य सोऽन्तरा तावृषी स्थितौ।
न शशाक पुनर्घोरमस्त्रं संहर्तुमोजसा॥ 10-15-11(64657)
अशक्तः प्रतिसंहारे परमास्त्रस्य संयुगे।
द्रौणिर्दीनमना राजन्द्वैपायनमभाषत॥ 10-15-12(64658)
उत्तमव्यसनार्तेन प्राणत्राणमभीप्सुना।
मयैतदस्त्रमुत्सृष्टं भीमसेनभयान्मुने॥ 10-15-13(64659)
अधर्मश्च कृतोऽनेन धार्तराष्ट्रं जिघांसता।
मिथ्याचारेण भगवन्भीमसेनेन संयुगे॥ 10-15-14(64660)
अतः सृष्टमिदं ब्रह्मन्मयाऽस्त्रमकृतात्मना।
तस्य भूयोऽपि संहारं कर्तुं नाहमिहोत्सहे॥ 10-15-15(64661)
निसृष्टं हि मया दिव्यमेतदस्त्रं दुरासदम्।
अपाण्डवायेति मुने वह्नितेजोऽनुमन्त्र्य वै॥ 10-15-16(64662)
तदिदं पाण्डवेयानामन्तायैवाभिसंहितम्।
अद्य पाण्डुसुतान्सर्वाञ्जीविताद्वंशयिष्यति॥ 10-15-17(64663)
कृतं पापमिदं ब्रह्मन्रोषाविष्टेन चेतसा।
वधमाशास्य पार्थानां मयास्त्रं सृजता रणे॥ 10-15-18(64664)
व्यास उवाच। 10-15-19(64665)
अस्त्रं ब्रह्मशिरस्तात विद्वान्पार्थो धनञ्जयः।
उत्सृष्टवानहिंसार्थं न रोषेण तवाहवे॥ 10-15-19(64666)
अस्त्रमस्त्रेण तु रमे तव संशमयिष्यता।
विसृष्टमर्जुनेनेदं पुनश्च प्रतिसंहृतम्॥ 10-15-20(64667)
ब्रह्मास्त्रमप्यवाप्यैतदुपदेशात्पितुस्तव।
क्षत्रधर्मान्महाबाहुर्नाकम्पत धनञ्जयः॥ 10-15-21(64668)
एवं धृतिमतः साधोः सर्वास्त्रविदुषः सतः।
सभ्रातृबन्धोः कस्मात्त्वं वधमस्य चिकीर्षसि॥ 10-15-22(64669)
अस्त्रं ब्रह्मशिरो यत्र परमास्त्रेण वध्यते।
समा द्वादश पर्जन्यस्तद्राष्ट्रं नाभिवर्षति॥ 10-15-23(64670)
एतदर्थं महाबाहुः शक्तिमानपि पाण्डवः।
न विहन्यात्तदस्त्रं तु प्रजाहितचिकीर्षया॥ 10-15-24(64671)
पाण्डवास्त्वं च राष्ट्रं च सदा संरक्ष्यमेव नः।
तस्मात्संहर दिव्यं त्वमस्त्रमेन्महाभुज॥ 10-15-25(64672)
अरोषस्तव चैवास्तु पार्थाः सन्तु निरामयाः।
न ह्यधर्मेण राजर्षिः पाण्डवो जेतुमिच्छति। 10-15-26(64673)
मणिं चैव प्रयच्छाद्य यस्ते शिरसि तिष्ठति।
एतदादाय ते प्रामान्प्रतिदास्यन्ति पाण्डवाः॥ 10-15-27(64674)
द्रौणिरुवाच। 10-15-28x(5294)
पाण्डवैर्यानि रत्नानि यच्चान्यत्कौरवैर्धनम्।
अवाप्तमिह तेभ्योऽयं मणिर्मम विशिष्यते॥ 10-15-28(64675)
यमाबध्य भयं नास्ति शस्त्रव्याधिक्षुधाश्रयम्।
देवेभ्यो दानवेभ्यो वा नागेभ्यो वा कथञ्चन॥ 10-15-29(64676)
न च रक्षोगणभयं न तस्करभयं तथा।
एवंवीर्यो मणिरयं न मे त्याज्यः कथञ्चन॥ 10-15-30(64677)
यत्तु मे भगवानाह तन्मे कार्यमनन्तरम्।
अयं मणिरयं चाहमिषीका तु पतिष्यति।
गर्भेषु पाण्डुपुत्राणामुत्रायास्तथोदरे॥ 10-15-31(64678)
वैशम्पायन उवाच। 10-15-32x(5295)
प्राह द्रोणसुतं तत्र व्यासः परमदुर्मनाः॥ 10-15-32(64679)
एवं कुरु न चान्यत्र बुद्धिः कार्या कथञ्चन।
गर्भेषु पाण्डवेयानां विसृज्यैतदुपारम॥ 10-15-33(64680)
`तमुवाच हृषीकेशः पाण्डवानां हिते मतः।
भविष्यमेकमुत्सृज्य गर्भेष्वस्त्रं निपात्यताम्॥ 10-15-34(64681)
अहमेनं ददाम्येषां पिण्डदं कीर्तिवर्धनम्।
राजर्षिं पुण्यकर्माणमनेकक्रतुयाजिनम्॥ 10-15-35(64682)
एवं कुरु न चान्या ते बुद्धिः कार्या कथञ्चन।
आगर्भात्पाण्डवेयानां कृत्वा पातं विनङ्क्ष्यति'॥ 10-15-36(64683)
एवं ब्रुवाणं गोविन्दं वृषभं सर्वसात्वताम्।
द्रौणिः परमसङ्क्रुद्धः प्रत्युवाचेदमुत्तरम्॥ 10-15-37(64684)
नैतदेवं यदात्थ त्वं पक्षपातेन केशव।
वचनात्पुण्डरीकाक्ष तव मद्वाक्यमन्यथा॥ 10-15-38(64685)
पतिष्यत्येतदस्त्रं वै गर्भे तस्या मयोद्यतम्।
विराटदुहितुः कृष्ण यं त्वं रक्षितुमर्हसि॥ 10-15-39(64686)
वासुदेव उवाच। 10-15-40x(5296)
अमोघः परमास्त्रस्य पातस्त्वद्य भविष्यति।
`अभिमन्योः सृजैषीकां गर्भस्थः शाम्यतां शिशुः॥ 10-15-40(64687)
अहमेनं मृतं जातं जीवयिष्यामि बालकम्'।
स तु गर्भो मृतो जातो दीर्घमायुरवाप्स्यति॥ 10-15-41(64688)
`इत्युक्तः प्रत्युवाचैनं द्रोणपुत्रः स्मयन्निव।
यद्यस्त्रदग्धं गोविन्द जीवयस्येवमस्त्विति'॥ 10-15-42(64689)
ततः परममस्त्रं तु द्रौणिरुद्यतमाहवे।
द्वैपायनमनादृत्य गर्भेषु प्रमुमोच ह॥ ॥ 10-15-43(64690)
इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि पञ्चदशोऽध्यायः॥ 15 ॥
Mahabharata - Sauptika Parva - Chapter Footnotes
10-15-8 आवर्तयते उपसंहरति॥ 10-15-27 एवं जीवितमादाय तव यास्यन्ति पाण्डवाः। इति क.पाठः॥ 10-15-29 मम वध्यमयं नास्तीति क.पाठः॥ 10-15-15 पञ्चदशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|